________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 117 कस्यापि जीर्णऋक्षस्य मुखे निपतितो भव / राजा-सेनापते ! 'आश्रमसन्निकर्ष स्थितोऽस्मीति वचनं ते नाऽभिनन्दामि / अद्य तावत्गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं, छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु / प्रकृति = शान्तिम् , आपन्नः = प्राप्तः / तां लम्भितो वाऽस्माभिः / आहिण्डमानः = परिभ्राम्यन् , अटवीतोऽटवीं = वनाद्वनम् | शृगालमृगलोलुपस्य = शृगालमृगमांसप्रियस्य / पाठान्तरे-नरनासिकाया लोलुपस्य-नरनासिकालोलुपस्य = नरनासिकाच्छेदनदुर्ललितस्य, जीर्णस्य = वृद्धस्य, ऋक्षस्य = भल्लूकस्य / आश्रमस्य सन्निकर्षः = सान्निध्यं, तत्र स्थितोऽस्मीति, न अभिनन्दामि = न स्वीकरोमि / अहमपि सम्प्रति मृगयां नेच्छामीत्याशयः / अद्य तावत् = इदानीन्तु / [ इदमग्रिमश्लोकान्वयि ] / गाहन्तामिति / महिषाः = वनलुलायाः। 'लुलायो महिषो वाह द्विषत्कासरसैरिभाः' इत्यमरः / शृङ्गैः = विषाणेः / मुहुः = वारंवारं / ताडितं = समास्फालितं / निपानस्य = आहावस्य / 'आहावस्तु निपानं स्यादुपकूपजलाशये' इत्यमरः / पशुपक्ष्यादीनां जलपानाय कूपादुद्धृत्य यत्रेष्टकादिचिते जलाधारे जलं स्थाप्यते तन्निपानम् / 'खेळ' कोटा' इति भाषायाम् / सलिलं = जलं, गाहन्ताम् = आलोलयन्तु / निर्भयत्वाद्यथेच्छ क्रीडन्तु / शृङ्गेर्जलस्य ताडनं महिषजातिस्वभावः / किञ्च छायायां बद्धं कदम्बकं येन तत्-छायाबद्ध-कदम्बकम् = अनातपप्रदेशबद्ध यूथं, मृगाणां कुलं = मृगनि कनकं. रोमन्थं = चर्वितचर्वण / [ 'रगाली' 'जुगाली' हो गए हैं / तुमार फेर में अब ये नहीं पड़ सकते हैं / अतः अरे रण्डा के पुत्र ! तूं ही इस जङ्गल से उस जङ्गल में फिरता हुआ, धक्के खाता हुआ, किसी बुड्ढे खूखार रीछ के, जो मनुष्य की नाक खाने का अभ्यस्त = आदि हो-मुख में जाकर गिर / राजा-हे सेनापते ! हम आश्रम के पास में हैं-इसलिये तुम्हारे इस मृगया के लिए उत्साह देनेवाले वचनों का हम अभिनन्दन ( समर्थन ) नहीं कर सकते हैं। अतः आज. तो-जंगली भैंसे अपने सीगों से बारंबार जलका ताडन करते हुए कुएँ आदि के पास छोटे 2 ताल-तलैया आदि जलाशयों में (खेल-कोठों में) अवगाहन ( निर्भय हो जलक्रीडा, स्नान ) करें / मृगगण भी वृक्षों की छाया में