________________ 646 ) [ काव्यषट्क नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भव ज्जिह्वायाः कृतिमा ह्वयेत परमां मत्कर्णयोः पारणाम् / 153 / प्रास्ये या तव भारती वसति तल्लीलारविन्दोल्लस द्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते / 5 तत्केलिभ्रमणाहंगैरिकसुधानिर्माणहधिरे तन्मृक्तामणिहार एव किमयं दन्तस्रजो राजत: / / 154 / / वाणी मन्मथतीर्थमुज्ज्वल रसस्रोतस्वती कापि ते खण्ड: खण्ड इतीदमोयपुलिनस्यालप्यते वालुका / एतत्तीरमृदैव किं विरचिताः पूता: सिताश्चक्रिकाः 10 कि पीयूषमिदंपयांसि किमिदंतीरे तवैवाधरौ / / 155 / / परभृतयुवतीनां सम्यगायाति गातं न तव तरुणि ! वाणोयं सुधासिन्धुवेणी / कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसौ भवदुपविपिनाने ताभिरामेडितेन // 156 / / 15 ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धकमालामयं मौर्वी तत्र तवाघराधरतटाधःसीमलेखालता। एषा वागपि तावकी ननु धनुर्वेदः प्रिये ! मान्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिरभ्यस्यते / / 157 / / स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाङ्क्तेयतां ___ तं च स्प्रष्टुमपि स्मरस्य विशिखा मुग्धे ! विगानोन्मुखाः / यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपु: ___ कोहङनाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम् / 158 / मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलधिमा मां प्रतीशित्वमेषि / 25 सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोखब्धकामावसाया भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम् / 156 /