________________ (5) नैषधीयचरितम् :: एकविंशः सर्गः ) [927 // 21 // एकविंशः सर्गः॥ तं विदर्भरमणीमणिसौधादुज्जिहानमनुर्शितसेवैः / अर्पणानिजकरस्य नरेन्द्ररात्मनः करदता पुनरूचे / / 1 / / तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात्कठिनेति / तां प्यधत्त शिरसां खलु माल्यै राजराजिरभितः प्रणमन्ती द्रागुपाहियत तस्य नृपैतदृष्टिदानबहुमानकृतार्थैः / / स्वस्य दिश्यमथ रत्नमपूर्व यत्नकल्पित गुणाधिकचित्रम् / / 3 / / 10 अङ्गुलीचलनलोचनङ्गिभ्रूतरङ्गविनिवेदितदानम् / रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत् / / 4 / / तानसौ कुशलसूनृतसेकस्तपितानथ पितेव विसृज्य / प्रस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः / / 5 / / मयंदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य / 15 स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छु: / / 6 / / यक्षकदंम मृदून्मदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् / गन्धवाभिरनुबन्धित भृगैरङ्गनाः सिषिचुरुच्चकुचास्तम् / / 7 / / भूभृतं पृथुतपोधनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः। . संदधज्जलघरस्खलदोघस्तीर्थवारिलहरीरुपरिष्टात् // 8 // प्रेयसीकुचवियोगहविभुंग्जन्मधूमविततीरिव बिभ्रत् / स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् / / 6 / / कल्प्यमानममुनाचमनाथ गाङ्गमम्बु चुलुकोदरचुम्बि / निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे नु / / 10 / / मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा। 25 मङ्गमङ्गमनुकं परिरेमे तं मृदो नलमृदूर्गृहयालुम् / / 11 / /