________________ 628 ] [ काव्यषटकं मूलमध्यशिखरस्थितवेधः शौरिशंभुकरकिाघ्रशिरःस्थैः / तस्य मूनि चकरे शुचि दर्भे- / रिवान्तमिव गाङ्गतरङ्गः / / 12 / / 5 प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य / . आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः / / 13 / / मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् / अम्बरं परिदधे विधुमौलेः स्पर्शयेव दशदिग्वसनस्य / / 14 / / भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः / प्राववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण // 15 / / स्नानवारिघटराजदुरोजा गौरमृत्तिलक बिन्दुमुखेन्दुः / केशशेषजलमौक्तिकदन्ता तं बभाज़ सुभगाप्लवनश्रीः / / 16 / / श्वैत्यशैत्यजलदैवतमन्त्र स्वादुताप्रमुदितां चतुरक्षीम् / वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिल घ्रमिवासीत् // 17 / / राज्ञि भानुमदुपस्थितयेऽस्मि नात्तमम्बु किरति स्वकरेण / भ्रान्तयः स्फुरति तेजसि चक्रु __ स्त्वष्ट्रतकुचल दर्कवितर्कम् // 18 / / सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानमभजन्त कराब्जे / . शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः // 16 / / 25 पाणिपर्वणि यवः पुनराख्य देवतर्पणयवार्पणमस्य /