________________ 616 ] ( काव्यषटकं अथाहय कलां नाम पाणिना स प्रियासखीम् / पुरस्ताद्वेशितामूचे कतु नर्मणि साक्षिणीम् // 26 / / कस्मादस्माकमब्जास्या वयस्या दयते न ते। ग्रासक्ता भवतीष्वन्यं मन्ये न बहु मन्यते // 27 / / अन्वग्राहि मया प्रेयाग्निशि स्वोपनयादिति / न विप्रलभते तावदालीरियमलीकवाक् . // 28 / / आह स्मैषा नलादन्यं न जुषे मनसेति यत् / यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा // 26 / / प्रास्यसौन्दर्यमेतस्याः शृणुमो यदि भाषसे / तद्धि लज्जानमन्मौले: परोक्षमधुनापि नः // 30 / / पूर्णयैव द्विलोचन्या सैषालीरवलोकते / द्राग्दगन्ताणुना मां तु मन्तुमन्तमिवेक्षते न लोकते यथेदानी मामियं तेन कल्पये / योऽहं दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीदृशा / / 32 / / 15 रागं दर्शयते सैषा वयस्याः सूनृतामृतः / / मम त्वमिति वक्तुं मां मौनिनी मानिनो पुनः / / 33 / / कां नामन्त्रयते नाम नामग्राहमियं सखीम् / कले ! नलेति नास्माकी स्पृशत्याह्वां न जिह्वया // 34 / / अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये / अवकाशलवोऽप्यस्ति नात्र कुत्र विभतु नः // 35 / / अधिगत्येहगेतस्या हृदयं मृदुतामुचोः / प्रतीम एव वैमुख्यं कुचयोयुक्तवृत्तयोः // 36 / / इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् / ' दमयन्तीमुखाधीतस्मितयाऽसौ तया जगे // 37 / / 25 भावितेयं त्वया साधु नवरागा खलु त्वयि / / चिरंतनानुरागार्ह वर्तते नः सखीः प्रति // 38 / /