________________ (5) नैषधीयचरितम् :: अष्टादशः सर्गः ] [ 601 5 दीपलोपमफलं व्यधत्त यस्त्वत्पटाहृतिषु मच्छिखामणिः / नो तदागसि परं समर्थना सोऽयमस्तु पदपातुकस्तव / / 136 / / इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरश्चकार सः / आत्ममौलिमणिकान्तिभङ्गिनी तत्पदारुणसरोजसङ्गिनीम् // 137 // तत्पदाखिलनखानुबिम्बनैः स्वैः समेत्य समतामियाय सः / रुद्रभूमविजिगीषया रतिस्वामिनोपदशमूर्तिताभृता / / 138 / / आख्यतैष कुरु कोपलोपनं पश्य नश्यति कृशा मघोनिशा / 10 एतमेव तु निशान्तरे वरं रोषशेषमनुरोत्स्यसि क्षणम् / 136 / साथ नाथमनयत्कृतार्थतां पाणिगोपितनिजाज्रिपङ्कजा / तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती / / 140 / / तो मिथो रतिरसायनात्पुनः संबुभुक्षुमनसो बभूवतुः / चक्षमे नतु तयोर्मनोरथं दुर्जनी रजनिरल्पजीवना // 141 / / 15 स्वप्तुमाप्तशयनीययोस्तयोः स्वरमाख्यत वचः प्रियां प्रियः / उत्सवेरघरदानपान H सान्तरायपदमन्तरान्तरा // 142 / / देवदूत्यमुपगम्य 'निर्दयं __ धर्मभीतिकृततादृशाग़सः / .. अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता // 143 / / स क्षणः सुमुखि ! यत्त्वदीक्षणं तच्च राज्यमुरु येन रज्यसि / तन्नलस्य सुधयाभिषेचनं यत्त्वदङ्गपरिरम्भविभ्रमः / / 144 / / शर्म किं हृदि हरेः प्रियार्पणं किं शिवार्धघटनं शिवस्य वा / 25 कामये तव महेषु तन्वि ! तं नन्वयं सरिदुदन्वदन्वयम् // 145||