________________ 600 ] ( काव्यषट्कं सा ह्रिया नतनताननाऽस्मर च्छेषरागमुदितं पति निश: // 127 / / स्वेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्तमिव हृद्गतं प्रियम् / निर्ममे धुतरतश्रमं निजींनतातिमृदुनासिकानिलैः / / 128 / / सुननायकनिदेशविभ्रम रप्रतीतचरवेदनोदयम् / दन्तदंशमघरेऽधिगामुका सास्पृशन्मृदु चमच्चकार च // 126 / / वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसाजितमुरोजयोरियम् / कान्तमैक्षत हसस्पृशं कियत् कोप कुञ्चितविलोचनाञ्चला // 130 / / रोषरूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षराम् / तां जगाद स न वेद्मि तन्वि ! ___तं कश्चकार तव कोपरोपणाम् / / 131 / / रोपकुङ्कुमविलेपनान्मनाङ्नन्ववाचि कृशतन्ववाचि ते / भूदयुक्तसमयैव रञ्जना मानने विधुविधेयमानने / / 132 / / क्षिप्रमस्य तु रुजा नखादिजास्तावकीरमृतसीकरं किरत् / एतदर्थमिदमथितं मया कण्ठचुम्बि मगिदाम कामदम् / 133 / स्वापराधमलुपत्पयोधरे मत्करः सुरधनुष्करस्तव / सेवया व्यजनचालनाभुवा भूय एव चरणौ करोतु वा / 134 / आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः / 25 शोध्यते सुदति ! वैरमस्य तत् कि त्वया वद विदश्य नाघरम् / / 135 / /