________________ (5) नैषधीयचरितम् :: अष्टादशः सर्गः ] [ 866 फाणितेषु मरिचावचूर्णना सा स्फुट कटरपि स्पृहावहा // 118 / / अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा / यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः / / 116 / / तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् / तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाति चापलम् // 120 / / स्वेदबिन्दुकितनासिकाशिखं तन्मुखं सुखयति स्म नैषधम् / 10 प्रोषिताधरशयालुयावकं सामिलुप्तपुलकं कपोलयोः / / 121 / / ह्रीणमेव पृथु सस्मरं कियत्क्लान्तमेव बहु निर्वृतं मनाक् / कान्तचेतसि तदीयमाननं तत्तदालभत लक्षमादरात् / / 122 / / स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथा यथा / नैषधस्य हगपात्तथा तथा चित्रमापदपतृष्णतां न सा // 123 / / - वोतमाल्यकचहस्तसंयम व्यस्तहस्तयुगया स्फुटीकृतम् / बाहुमूलमनया तंदुज्ज्वलं / . वीक्ष्य सौख्यजलधौ, ममज्ज सः // 124 / / वीक्ष्य पत्युरधरं कृशोदरी ... बन्धुजीवमिव भृङ्गसंगतम् / मञ्जुलं मयनकज्जलैनिजैः संवरीतुमशकस्मित न सा // 12 // तां विलोक्य विमुखश्रितस्मितां पृच्छतो हसितहेतुमीशितुः / ह्रीमती व्यतरदुत्तरं वधः पाणिपङ्करुहि दर्पणार्पणाम् / 126 / 25 लाक्षयात्मचरणस्य चुम्बना चारुभालमवलोक्य तन्मुखम् / /