________________ रघुवंशे नवमः सर्गः ] [ 67 हा तातेति ऋन्दितमाकर्ण्य विषण्ण स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः / शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीक्षितिपोऽपि / / 75 / / ( मत्तमयूरं ) तेनावतीर्य तुरगात्प्रथितान्वयेन . पृष्टान्वयः स जलकुम्भनिषण्णदेहः / तस्मै द्विजेतरतपस्विसुतं स्खलद्भि रात्मानमक्षरपदैः कथयांबभूव / 76 / (वसंत०) तच्चोदितश्च तमनुद्धतशल्यमेव पित्रोः सकाशमवसन्नदृशोनिनाय / ताभ्यां तथागतमुपेत्य तमेकपुत्र मज्ञानतः स्वचरितं नृपतिः शशंस / / 77 / / तौ दंपती बहु विलष्य शिशोः प्रहा शल्यं निखातमुदहारयतामुरस्तः / सोऽभूत्परासुरथ भूमिपति शशाप हस्तापितैर्नयनवारिभिरेव वृद्धः / / 78 / / दिष्टान्तमाप्स्यति भवानपि पुत्रशोका दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् / आक्रान्तपूर्वमिव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः / / 76 / / शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् / - कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननी ज्वलनः करोति / / 80 / / 25