________________ [काभ्यषट्के (1) रघुवंशम् इति विस्मृतान्यकरणीयमात्मनः - सचिवावलम्बितधुरं धराधिपम् / परिवृद्धरागमनुबन्धसेवया. मृगया जहार चतुरेव कामिनी // 66 / / स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् / नरपतिरतिवाहयांबभूव क्वंचिदसमेतपरिच्छदस्त्रियामाम् / / 70 / / (पुष्पिताग्रा) उषसि स गजयूथकर्णतालैः, . पटुपटहध्वनिभिविनीतनिद्रः / / अरमत मधुराणि तत्रशृण्व विहगविकूजितबन्दिमङ्गलानि / / 71 / / अथ जातु रुरागृहीतवा विपिने पार्श्वचरैरलक्ष्यमाणः / श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदी तुरंगमेण // 72 // कुम्भपूरणभवः पटुरुच्चै रुच्चचार निनदोऽम्भसि तस्याः / तत्र स द्विरदबृहितशङ्की शब्दपातिनमिषु विससर्ज // 73 // (स्वागता) नृपतेः प्रतिषिद्धमेव तत्कृ ___तवान्पङ्क्तिरथो विलङ्घय यत् / अपथे पदमर्पयन्तिहिश्रुतवन्तोऽपि रजोनिमीलिताः / / 74 / / ( वैतालीयं )