________________ रघुवंशे नवमः सर्गः ] [ 65 शृङ्गं सदृप्तविनयाधिकृतः परेषा मत्युच्छ्रितं न ममषे न तु दीर्घमायुः / / 62 / / व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः फुल्लन्सनाग्रविटपानिव वायुरुग्णान् / शिक्षाविशेषलघुहस्ततया निमेषा त्तणीचकार शरपूरितवक्त्ररन्ध्रान् / / 63 / / निर्घातोग्रैः कुञ्जलीनाजिघांसु . या॑निर्घोषैः क्षोभयामास सिंहान् / नूनं तेषामभ्यसूयापरोऽभू द्वीर्योदने राजशब्दे मृगेषु / / 64 / / (शालिनी तान्हत्वा गजकुलबद्धतीववैरा न्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् / प्रात्मानं रणकृतकर्मणांगजा नामानण्यं गतमिव मार्गणैरमंस्त // 65 / / चमरान्परितः प्रवतिताश्वः क्वचिदाकर्णविकृष्टभल्ल वर्षी / नपतीनिव तान्वियोज्यसद्यः सितबालव्यजनैर्जगाम शान्तिम् // 66 / / . . ( प्रौपच्छन्दसिक ) 20 अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार / सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्ध केशपाशे प्रियायाः / / 67 / / ( मालिनी) 25 तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् / आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः / / 68 / / ( रथोद्धत्ता )