________________ 826 ] [ काव्यषट्कं देवी कथंचित्खलु तामदेव द्रीची भवन्ती स्मितसिक्तसृक्का / प्राह स्म मां प्रत्यपि ते पुनः का ___ शङ्का शशाङ्कादधिकास्यबिम्बे ! / / 40 / / 5 एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक् / सुपर्ववैरे तव वैरसेनि वरीतुमीहा कथमौचितीयम् / / 4 / / इतीरिते विश्वसितां पुनस्ता मादाय पाणौ दिविषत्सु देवी / कृत्वा प्रणम्रां वदति स्म सा तान् भक्तेयमहत्यधुनानुकम्पाम् // 42 / / युष्मान्वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नकम् / तद्वः समेतान्नृपमेनमंशान्वरीतुमन्विष्यति लोकपाला: ! / 43 / भैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संजनयांबभूव / संभोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमिद्ययतध्वे / / 44 / / 15 वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय / प्रसेदुषो वेदशवृत्तभङ्गया दित्सव कीर्तेर्भुवमानयद्वः / / 4 / / इति श्रुतेऽस्या वचसैव हास्या त्कृत्वा सलास्याघरमास्यबिम्बम् / भ्रूविभ्रमाकूतकृताभ्यनुज्ञे वेतेषु तां साथ नलाय निन्ये / / 46 / / मन्दाक्षनिःस्पन्दतनोर्मनोभू दुष्प्रेरमप्यानयति स्म तस्याः / मधूकमालामधुरं करं सा . _____ कण्ठोपकण्ठं वसुधासुधांशोः // 47 / / 25 अथाभिलिख्येव समर्प्यमाणां राजि निजस्वीकरणाक्षराणाम् / दुर्वाकुराढ्यां नलकण्ठनाले वधूमधूकस्रजमुत्ससर्ज / / 48 / / // 47 //