________________ 814 ] [ काव्यषट्कं देवस्य सूनुमरविन्दविकासिरश्मे..... रुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे / / 15 / / दण्डं बिभर्त्ययमहो जगतस्ततः स्या कम्पाकुलस्य सकलस्य न पङ्कपातः / स्ववैद्ययोरपि मदव्ययदायिनीभि रेतस्य रुग्भिरमरः किमु कश्चिदस्ति / / 16 / / मित्रप्रियोपजननं प्रति हेतुरस्य / संज्ञा श्रुतासुहृद्रय न जनस्य कस्य / छायेगस्य च न कुत्रचिदध्यगायि ... तप्तं यमेन नियमेन तपोऽमुनैव / / 17 / / किं च प्रभावनमिताखिलराजतेजा देवः पिताम्बरमणी रमणीयमूर्तिः / उत्क्रान्तिदा कमनु न प्रतिभाति शक्तिः - कृष्णत्वमस्य च परेषु गदान्नियोक्तुः / / 18 / / एकः प्रभावमयमेति परेतराजी ... तज्जीवितेशधियमत्र निघत्स्व मुग्धे ! / भूतेषु यस्य खलु भूरियमस्य वश्य भावं समाश्रयति दस्रसहोदरस्य / / 16 / / गुम्फो गिरां शमननैषधयोः समानः शङ्कामनेकनलदर्शनजातशके / चित्ते विदर्भवसुधाधिपतेः सुताया ____यन्निर्ममे खलु तदेष पिपेष पिष्टम् // 20 // तत्रापि तत्रभवती भृशसंशयालो रालोक्य सा विधिनिषेधनिवृत्तिमस्याः / पाथःपति प्रति धृताभिमुखामुलीक पाणिः क्रमोचितमुपाक्रमताभिधातुम् / / 21 / / 20