________________ (5) नेषधीयचरितम् :: त्रयोदशः सर्गः ] . [815 A .. या सर्वतोमुखतया व्यवतिष्ठमाना. यादोरणैर्जयति नैकविदारकाया / एतस्य भूरितरवारिनिधिश्चमूः सा __यस्याः प्रतीतिविषयः परतो न रोधः // 22 // नासीरसीमनि घनध्वनिरस्य भूया कुम्भीरवान्समकरः सहदानवारिः / उत्पद्मकाननसखः सुखमातनोति रत्नरलंकरणभावमितैर्नदीनः // 23 // सस्यन्दनैः प्रवहणैः प्रतिकूलपातं. का वाहिनी न तनुते पुनरस्य नाम / तस्या विलासवति ! कर्कशताश्रिता या ब्रमः कथं बहुतयासिकता वयं ताः // 24 // शोणं पदप्रणयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरस्वती सा / एनं भजस्व सुभगे ! भुवनाधिनाथं के बा भजन्ति तमिमं कमलाशया न // 25 // शङ्कालताततिमनेकनलावलम्बां वाणी नवर्धयतु तावदभेदिकेयम् / भीमोद्भवां प्रति नले च जलेश्वरे च : . तुल्यं तथापि यदवर्धयदत्र चित्रम् // 26 / / बालां विलोक्य विबुधरपि मायिभिस्तै.... रच्छzितामियमलीकनलीकृतस्वैः / / आह स्म तां भगवती निषधाधिनाथं निर्दिश्य राजपरिषत्परिवेषभाजम् // 27 / / अत्याजिलब्धविजयप्रसरस्त्वया किं . विज्ञायते रुचिपदं न महीमहेन्द्रः /