________________ (5) नैषधीयचरितम् :: त्रयोदशः सर्गः ] . [813 शक्रः किमेष निषधाधिपतिः स वेति दोलायमानमनसं परिभाव्य भैमीम् / निर्दिश्य तत्र पवनस्य सखायमस्यां भूयोऽसृजद्भगवती वचसः स्रजं सा / / 6 / / एष प्रतापनिधिरुद्गतिमान्सदाऽयं किं नाम नाजितमनेन धनंजयेन / हेम प्रभूतमधिगच्छ शुचेरमुष्मा नास्येव कस्यचन भास्वररूपसंपत् / / 10 / / प्रत्यर्थहेतिपटुताकवलीभवत्त__ तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः / अप्यङ्गरागजननाय महेश्वरस्य / . संजायते रुचिरकरिण ! तपस्विनोऽपि // 11 // एतन्मुखा विबुधसंसदसावशेषा ____ माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि / एन महस्विनमुपेहि सदारुणोच्च . येनामुना पितृमुखि ! ध्रियते करधीः / / 12 / / नेवाल्पमेघसि पटो रुचिमत्त्वमस्य . मध्येसमिनिवसतो रिपवस्तृणानि / उत्थानवानिह पराभवितुं तरस्वी . शक्यः पुनर्भवति केन विरोधिनायम् // 13 // साधारणी गिरमुषर्बुधनैषधाभ्या...मेतां निपीय न विशेषमवाप्तवत्याः / ऊचे नलोऽयमिति तं प्रति चित्तमेकं ते स्म चान्यदनलोऽयमितीदमीयम् / / 14 / / एतारशीमथ विलोक्य सरस्वती तां संदेहचित्रभयचित्रितचित्तवृत्तिम् / 25