________________ 60 ] [ काव्यषट्के (1) रघुवंशम् न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु / तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् // 7 // न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि / न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता // 8 // उदयमस्तमयं च रघूद्वहादुभयमान शिरे वसुधाधिपाः / स हि निदेशमलनयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् / / 3 / / अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः / जयमघोषयदस्य तु फेवलं गजवती जवतीव्रहया चमूः / / 10 / / अवनिमेकरथेन वरूथिना जितवत: किल तस्य धनुर्भूतः / विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः / / 11 / / शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः / स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः / 12 / चरणयोर्नखरागसमृद्धिभिर्मुकुट रत्नमरीचिभिरस्पृशन् / नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् / / 13 / / निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् / समनुकम्ष्य सपत्नपरिग्रहाननल कानलकानवमां पुरीम् // 14 // उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः / श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः / / 15 / / तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता। नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु / / 16 / / तमलभन्त पति पतिदेवताः शिखरिणामिव सागरमापगाः / मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् / / 17 / / प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः / उपगतो विनिनीषरिव प्रजा हरिहयोऽरिहयोगविचक्षणः / / 18 / / 25 स किल संयुगमूनि सहायतां मघवतः प्रतिपद्य महारथः / स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः // 16 // 20