________________ रघुवंशे नवमः सर्गः ] [ 59 रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः .. प्रायोपवेशनमति पतिर्बभूव / / 64 / / .. ( वसंततिलका ) तीर्थे तोयव्य तिकरभवे जह नुकन्यासरय्वो देहत्यागादमरगणनालेख्यमासाद्य सद्यः / पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु / / 95 / / . ( मन्दाक्रान्ता ) // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजविलापो नाम अष्टमः सर्गः / / 8 / / 10 // 9 // नवमः सर्गः॥ पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाविजितेन्द्रियः / दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः / / 1 / / (द्रुतविलवितं ) 15 अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् / अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः // 2 // उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् / बलनिषूदनमर्थपति च तं श्रमनुदं मनुदण्डधरान्वयम् / / 3 / / जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः / क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पाथिवे // 4 // दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् / तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् / / 5 // समतया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिपः / अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा // 6 //