________________ 58 ] [ काव्यषट्के (1) रघुवंशम् अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः। स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते // 86 // मरणं प्रकृतिः शरीरिणां विकृति वितमुच्यते बुधैः / क्षणमष्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ / / 87 / / 5 अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् / / स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् // 88 / / स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा / विरहः किमिवानुतापयेद्वद बाह्यविषयविपश्चितम् / / 89 // न पृथग्जनवच्छुचो वशं वशिनामुत्तम ! गन्तुमर्हसि / द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः / / 90 // स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् / तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः / / 1 / . (तोटकं ) तेनाष्टौ परिगर्मितः समाः कथंचिद्वालत्वादवितथसूनतेन सूनोः / सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च / / 62 / / (प्रहर्षिणी ) तस्य प्रसह्य हृदयं किल शोकशङ्कुः / प्लक्षप्ररोह इव सौधतलं बिभेद / प्राणान्तहेतुमपि तं भिषजामसाध्यं ____ लाभं प्रियानुगमने त्वरया स मेनें / / 63 / / .. ( वसंततिलका ) सम्यग्विनीतमथ वर्महरं कुमार मादिश्य रक्षणविधौ विधिवत्प्रजानाम् /