________________ रघुवंशे नवमः सर्गः ] [ 61 क्रतुषु तेन विजितमौलिना भुजसमाहृतदिग्वसुना कृताः / कनकयूपसमुच्छयशोभिनो वितमसा तमसासरयूतटाः // 20 // अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् / अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः / / 21 / / अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः / नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः // 22 // असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भूता। दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् / 23 / अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् / 10 यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् / / 24 / / जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः / दिनमुखानि रविहिमनिग्रहैविमलयन्मलयं नगमत्यजत् / 25 / कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् / इति यथाक्रममाविरभून्मधुई मवतीमवतीर्य वनस्थलीम् / 26 / 15 नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमथिनः / अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्त्रिणः / 27 / कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् / किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणापितः 28 विरचिता मधुनोपवानश्रियामभिमवा इव पत्रविशेषकाः / 20 मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः / 26 / सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः / / मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः / / 30 / / उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके / प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया // 31 / / 25 वणगुरुप्रमदाधरदुःसहं जघननिविषयीकृतमेखलम् / न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् / 32 /