________________ 778 ] [ काव्यषट्कं शृङ्गारसर्गरसिकद्वयणुकोदरि ! त्वं द्वीपाधिपान्नयनयोर्नय गोचरत्वम् / / 26 / / स्वादूदके जलनिधौ सवनेन सार्घ भव्या भवन्तु तव वारिविहारलीला: / द्वीपस्य तं पतिममु भज पुष्करस्य निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ! // 27 / / सावर्तभावभवदद्भुतनाभिकूपे! स्वभौममेतदुपवर्तनमात्मनैव / स्वाराज्यमर्जयसि न श्रियमेतदीया मेतद्गृहे परिगृहाण शचीविलासम् / / 28 / / देवः स्वयं वसति तत्र किल स्वयंभू न्यग्रोधमण्डलतले हिमशीतले यः / स त्वां विलोक्य निजशिल्पमनन्यकल्पं सर्वेषु कारुषु करोतु करेण दपम् / / 26 / / न्यग्रोधनादिव दिवः पतदातपादे ___ न्यग्रोधमात्मभरधारमिवावरोहैः / तं तस्य पाकिफलनीलदलद्युतिभ्यां द्वीपस्य पश्य शिखिपत्रजमातपत्रम् // 30 / / न श्वेततां चरतु वा भुवनेषु राज हंसस्य न प्रियतमा कथमस्य कोतिः / चित्रं तु यद्विशदिमाद्वयमादिशन्ती क्षीरं च नाम्बु च मिथः पृथगातनोति / / 31 / / शूरेऽपि सूरिपरिषत्प्रथमाचितेऽपि शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि / तस्मिन्नवद्यमियमाप तदेव नाम / यत्कोमलं न किल तस्य नलेति नाम // 32 // 25