________________ (5) नैषधीयचरितम् :: एकादशः सर्गः ] [ 776 भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा लिङ्गं चकार तदनादरणस्य विज्ञा / राज्ञोऽपि तस्य तदलाभजतापवह्नि ____श्चिह्नोबभूव मलिनच्छविभूमधूमः // 33 / / राजान्तराभिमुखमिन्दुमुखीमथैनां ____ जन्या जनीं हृदयवेदितयैव निन्युः / अन्यानपेक्षितविधौ न खलु प्रधान वाचां भवत्यवसरः सति भव्यभृत्ये // 34 // ऊचे पुनर्भगवती नृपमन्यमस्यै निर्दिश्य दृश्यतमतावमताश्विनेयम् / आलोक्यतामयमये ! कुलशीलशाली शालीनतानतमुदस्य निजास्यबिम्बन् // 35 / / एतत्पुरःपठदपश्रमबन्दिवृन्द वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् / उत्पत्तमस्ति पदमेव न मत्पदाना मर्थोऽपि नार्थपुनरुक्तिषु पातुकानाम् // 36 / / नन्वत्र हव्य इति विश्रुतनाम्नि शाक द्वीपप्रशासिनि सुधीषु सुधीभवन्त्या / एतद्भुजाबिरुदबन्दिजयानयापि कि रागि राजनि गिराजनि नान्तरं ते // 37 / / शाकः शुकच्छदसमच्छविपत्रमाल भारी हरिष्यति तरुस्तव तत्र चित्तम् / यत्पल्लवौघपरिरम्भविज़म्भितेन ख्याता जगत्सु हरितो हरितः स्फुरन्ति / / 38 / / स्पर्शेन तत्र किल तत्तरुपत्रजन्मा यन्मारुतः कमपि संमदमादधाति / .