________________ 776 ] ... [ काव्यषट्क गन्धर्वसंसदि न गन्धमपि स्वरस्य तस्या विमृश्य विमुखोऽजनि यानवर्गः / / 13 / / दीनेषु सत्स्वपि कृताफलवित्तरक्ष यक्षैरदर्शि न मुखं त्रपयव भैम्याम् / ते जानते स्म सुरशाखिपतिव्रतां किं तां कल्पवीरुधमधिक्षिति नावतीर्णाम् / / 14 / / जन्यास्ततः फणभृतामधिपं सुरौघा माञ्जिष्ठमञ्जिमवगाहिपदोष्ठलक्ष्मीम् / तां मानसं निखिलवारिचयान्नवीना हसावलीमिव घना गमयांबभूवुः // 15 / / यस्या विभोरखिलवाङ्मयविस्तरोऽय माख्यायते परिणतिर्मुनिभिः पुनः सा। उद्गत्वरामतकरार्धपराय॑भालां बालामभाषत सभासततप्रगल्भा // 16 / / प्राश्लेषलग्नगिरिजाकुचकुङ्कुमेन यः पट्टसूत्रपरिरम्भणशोणशोभः / यज्ञोपवीतपदवीं भजते स शंभोः सेवासु वासुकिरयं प्रसितः सितश्रीः / / 17 / / पाणौ फरणी भजति कङ्कणभूयमैशे सोऽयं मनोहरमणीरमणीयमुच्चैः / कोटीरबन्धनधनुर्गुणयोगपट्ट __ व्यापारपारगममु भज भूतभर्तुः // 18 / / धत्वैकया रसनयामृतमीश्वरेन्दो रप्यन्यया त्वदधरस्य रसं द्विजिह्वः / प्रास्वादयन्युगपदेष परं विशेष निर्णतुमेतदुभयस्य यदि क्षमः स्यात् / / 16 / / 25