________________ (5) नैषधीयचरितम् :: एकादशः सर्गः ] [ 775 .संभाषणं भगवती सदृशं विधाय वाग्देवता विनयबन्धुरकन्धरायाः / ऊचे चतुर्दशजगज्जनतानमस्या __. तत्राश्रिता सदसि दक्षिणपक्षमस्याः // 7 // अभ्यागमन्मखभुजामिह कोटिरेषा . येषां पृथक्कथनमब्दशतातिपाति / अस्यां वृणीष्व मनसा परिभाव्य कचि ___ द्यं चित्तवृत्तिरनुधावति तावकीना // 8 // एषां त्वदीक्षणरसादनिमेषतैषा स्वाभाविकानिमिषतामिलिता यथाभूत् / प्रास्ये तथैव तव नन्वधरोपभोग मुग्धे ! विधावमृतपानमपि द्विधास्तु // 6 // एषां गिरेः सकलरत्नफलस्तरुः स प्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः / मुक्ताफलं फलनसान्वयनाम तन्व . नाभाति बिन्दुभिरिव च्छरितः पयोधेः / / 10 / / वक्रेन्दुसंनिधिनिमीलदलारविन्द द्वन्द्वभ्रमक्षममथाञ्जलिमात्ममौली / कृत्वापराधभयचञ्चलमीक्षमाणा सान्यत्र गन्तुममरैः कृपयान्वमानि // 11 / / तत्तद्विरागमुदितं शिबिकाधरस्थाः ___ साक्षाद्विदुः स्म न मनागपि यानधुर्याः / आसन्ननायकविषण्णमुखानुमेय- .. * भैमीविरक्तचरितानुमया तु जजुः / / 12 / / रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो विद्याधरेष्वधरतां वपुषैव भैम्याः / 15