________________ (5) नैषधीयचरितम् :: नवमः सर्गः ] [ 741 / / 63 / / त्वदास्यनिर्यन्मदलीकदुर्यशो मषीमयं सल्लिपिरूपभागिव / श्रुति ममाविश्य भवदुरक्षरं सृजत्यद: कीटवदुत्कटा रुजः तमालिरूचेऽथ विदर्भजेरिता प्रगाढमौनवतयैकया सखी। त्रपां समाराधयतीयमन्यया __ भवन्तमाह स्वरसज्ञया मया // 64 / / तमचितुं मदरणस्रजा नृपं . स्वयंवरः संभविता परेद्यवि / ममासुभिर्गन्तुमनाः पुरःसरै. स्तदन्तरायः पुनरेष वासरः // 65 / / तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी / नखैः किलाख्यायि विलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः // 66 / / दृशोयी ते विधिनास्ति वञ्चिता मुखस्य लक्ष्मी तव यन्न वीक्षते। असावपि श्वस्तदिमां नलानने विलोक्य साफल्यमुपैतु जन्मनः // 67 / / ममैव पाणौकरणेऽग्निसाक्षिक प्रसङ्गसंपादितमङ्ग ! संगतम् / न हा सहाधीतिधृतः स्पृहा कथं तवार्यपुत्रीयमजर्यमजितुम् ? // 68 // 25 . दिगीश्वरार्थं न कथंचन त्वया कदर्थनीयास्मि कृतोऽयमञ्जलिः / प्रय