________________ 742 ] [ काव्यषटकं प्रसद्यतां नाद्य निगाद्यमीदृशं . . दृशौ दधे बाष्परयास्पदे भृशम् // 69 / / वृणे दिगीशानिति का कथा तथा त्वयोति नेक्षे नलभामपीहया / सतीव्रतेऽग्नौ तृणयामि जीवितं स्मरस्तु किं वस्तु तदस्तु भस्म यः // 70 / / न्यवेशि रत्नत्रितये जिनेन यः स. धर्मचिन्तामणिरुज्झितो यया। कपालिकोपानलभस्मनः कृते ___ तदेव भस्म स्वकुले स्तृतं तया // 71 / / निपीय पीयूषरसौरसीरसौ गिरः स्वकंदर्पहुताशनाहुतीः। कृतान्तदूतं न तया यथोदितं कृतान्तमेव स्वममन्यतादयम् // 72 // स भिन्नमर्मापि तदर्तिकाकुभिः स्वदूतधर्मान्न विरन्तुमैहत / शनैरशंसन्निभृतं विनिश्वस विचित्रवाश्चित्रशिखण्डिनन्दनः // 73 // दिवोधवस्त्वां यदि कल्पशाखिनं कदापि याचेत निजाङ्गणालयम् / कथं भवेरस्य न जीवितेश्वरी न मोघयाञ्चः स हि भीरु ! भूरुहः / / 74 / / शिखी विधाय त्वदवाप्तिकामनां स्वयंहुतस्वांशहविः स्वमूर्तिषु / / क्रतुं विधत्ते यदि सार्वकामिक ___ कथं स मिथ्यास्तु विधिस्तु वैदिकः / / 7 / / 15 25