________________ 740 ] [ काव्यषटकं ममापि साधुः प्रतिभात्ययं क्रम श्चकास्ति योग्येन हि योग्यसंगम: / / 6 / / अजातविच्छेदलवैः स्मरोद्भवै ___ रगस्त्यभासा दिशि निर्मलत्विषि / धुतावधि कालममृत्युशङ्किता निमेषवत्तेन नयस्व केलिभिः // 57 / / शिरीषमृद्वी वरुणं किमीहसे पयःप्रकृत्या मृदुवर्गवासवम् / विहाय सर्वान्वृणुते स्म किं न सा निशापि शोतांशुमनेन हेतुना // 58 / / असेवि यस्त्यक्तदिवा दिवानिशं श्रियः प्रियेणानणुरामणीयकः / सहामुना तत्र पयःपयोनिधौ कृशोदरि ! क्रीड यथामनोरथम् / / 5 / / इति स्फुटं तद्वचसस्तयादरा सुरस्पहारोपविडम्बनादपि / करासुप्तककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् // 60 / / चिरादनध्यायमवाङ्मुखी मुखे ततः स्म सा वासयते दमस्वसा / कृतायतश्वासविमोक्षणाथ तं क्षणाद्वभाषे करुणं विचक्षणा // 61 / / विभिन्दता दुष्कृतिनी मम श्रुति दिगिन्द्रदुर्वाचिकसूचिसंचयः / प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम् // 62 / / 25