________________ 52 ] [ काव्यषट्के (1) रघुवंशम् अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयतु / उदघरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् / / 8 / / न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहामिव / स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् / / 6 / / 5 अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया / विषयेषु विनाशधमसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् / / 10 / / गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः / पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे // 11 // तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः / पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः // 12 // रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः / न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवजितां श्रियम् // 13 / / स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराहिः / समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया // 14 // 15 प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् / नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् / / 15 / / यतिपाथिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः / अपवर्गमहोदयार्थयोभुवमशाविव धर्मयोर्गतौ // 16 / / अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः / अनपायिपदोपलब्धये रघुराप्तः समियाय योगिभिः / / 17 / / नृपतिः प्रकृतीरवेक्षितु व्यवहारासनमाददे युवा / परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् // 18 / / अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् / / अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् // 16 // 25 अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् / इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना // 20 //