________________ 706 ] { काव्यषट्कं पौष्षं धनुः किं मदनस्य दाहे . श्यामीभवत्केसरशेषमासीत् / व्यधाद्विधेशस्तदपि ऋधा कि भैमीभ्रुवौ येन विधिय॑वत्त // 24 / / 5 भ्रूभ्यां प्रियाया भवता मनोभूचापेनचापे घनसारभावः / निजां यदप्लोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यताजि / / 25 / / स्मारं धनुर्यदिधुनोज्झितास्या यास्येन भूतेन च लक्ष्मलेखा / एतद्भुवौ जन्म तदाप युग्म लीलाचलत्वोचितबालभावम् // 26 // इषुत्रयेणैव जगत्त्रयस्य _ विनिर्जयात्पुष्पमयाशुगेन / शेषा द्विबाणो सफलीकृतेयं प्रियागम्भोजपदेऽभिषिच्य सेयं मृदुः कौसुमंचापयष्टिः स्मरस्य मुष्टि ग्रहणार्हमध्या / तनोति नः श्रीमदपाङ्गमुक्तां ___ मोहाय या दृष्टिश रौधवृष्टिम् // 28 / / आपूणितं पक्ष्मलमक्षिपद्म 20 प्रान्तद्युतिश्वैत्यजितामृतांशु / अस्या इवास्याश्चलदिन्द्रनील गोलामलश्यामलतारतारम् // 26 // कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिजितेन / यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी / / 30 / / 25 त्वचः समुत्तार्य दलानि रीत्या मोचात्वचः पञ्चषपाटनायाम् / सारैगृहीतविधिरुत्पलौघादस्यामभूदीक्षणरूपशिल्पी // 31 // | // 27 //