________________ (5) नैषधीयचरितम् :: सप्तमः सर्गः ] [705 नास्पशि दृष्टापि विमोहिकेयं दोषरशेषैः स्वभियेति मन्ये / अन्येषु तैराकुलितस्तदस्यां वसत्यसापत्न्यसुखी गुणौधः / / 17 / / औज्झि प्रियाङ्गघृणयैव रूक्षा ___ न वारिदुर्गात्तु वराटकस्य / न कण्टकैरावरणाच्च कान्ति धूलीभता काञ्चनकेतकस्य // 18 // प्रत्यङ्गमस्यामभिकेन रक्षा ___ कतु मघोनेव निजास्त्रमस्ति / वज्र च भूषामणिमूर्तिधारि नियोजितं तद्दयुतिकामुकं च // 16 // अस्या: सपक्षकविधोः कचौघः स्थाने मुखस्योपरि वासमाप / पक्षस्थतावद्वहुचन्द्रकोऽपि कलापिनां येन जितः कलापः // 20 / / अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् / स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् // 21 / / अस्याः कचानां शिखिनश्च किनु . . विधि कलापौ विमतेरगाताम् / तेनायमेभिः किमपूजि . पुष्पै रभत्सि दत्त्वा स किमर्धचन्द्रम् / / 22 / / केशान्धकारादथ दृश्यभाल .' स्थलार्धचन्द्रा स्फुटमष्टमीयम् / 25 एनां यदासाद्य जगज्जयाय .. मनोभुवा सिद्धिरसाघि साधु // 23 //