________________ 660 ] [ काव्यषट्कं दोर्मूलमालोक्य कचं रुरुत्सोस्ततः कुचौ तावनुलेपयन्त्याः / नाभीमथैष श्लथवाससोऽनु मिमील दिक्षु क्रमकृष्टचक्षुः / / 20 / / मीलन्न शेकेऽभिमुखागताभ्यां __धतुनिपीड्य स्तनसान्तराभ्याम् / स्वाङ्गान्यपेतो विजगौ स पश्चात् पुमङ्गसङ्गोत्पुलके पुनस्ते // 21 / / निमीलनस्पष्टविलोकनाभ्यां कथितस्तां कलयन्कटाक्षः / स रागदर्शीव भृशं ललज्जे स्वतः सतां ह्रीः परतोऽतिगुर्वी // 22 / / रोमाञ्चिताङ्गीमनु तत्कटाक्ष . न्तेिन कान्तेन रतेनिदिष्ट: / मोघः शरौघः कुसुमानि नाभू तधर्यपूजां प्रति पर्यवस्यन् // 23 // हित्वैव वत्मकमिह भ्रमन्त्याः / स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य / चतुष्पथस्याभरणं बभूव ___ लोकावलोकाय सतां स दीपः / / 24 / / उद्वर्तयन्त्या हृदये निपत्य ___ नृपस्य दृष्टिय॑वृतद्भुतैव / वियोगिवरात्कुचयोर्नखाङ्क____रर्धेन्दुलीलैर्गलहस्तितेव // 25 // तन्वीमुखं द्रागधिगत्य चन्द्र वियोगिनस्तस्य निमीलिताभ्याम् / द्वयं द्रढीयः कृतमीक्षणाभ्यां / तदिन्दुता च स्वसरोजता च // 26 // 25