________________ 5 (5) नैषधीयचरितम् :: षष्ठः सर्गः ] [ 686 दृशं ददौ विस्मयनिस्तरङ्गां . स लङ्घितायामपि राजसिंहः // 12 / / अन्तःपुरान्तः स विलोक्य बालां कांचित्समालब्धुमसंवृतोरुम् / निमीलिताक्षः परया भ्रमन्त्या संघट्टमासाद्य चमञ्चकार // 13 // अनादिसर्गस्रजि वानुभूता चित्रेषु वा भीमसुता नलेन / जातेव यद्वा जितशम्बरस्य ____सा शाम्बरीशिल्पमलक्षि दिक्षु // 14 / / अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय / भंमीभ्रमस्यैव ततः प्रसादाद भैमीभ्रमस्तेन न तास्वलम्भि // 15 / / भैमीनिराशे हृदि मन्मथेन / . दत्तस्वहस्ताद्विरहाद्विहस्तः / स तामलीकामवलोक्य तत्र क्षणादपश्यन्व्यषदद्विबुद्धः / / 16 / / प्रियां विकल्पोपहृतां स यावद्दिगीशसंदेशमजल्पदल्पम् / 20 अदृश्यवाग्भीषितभूरिभीरुभवो रवस्तावदचेतयत्तम् / / 17 / / पश्यन्स तस्मिन्मरुतापि तन्व्याः .. स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ। अक्षान्तपक्षान्तमृगाङ्कमास्यं दधार तिर्यग्वलितं विलक्षः // 18 / / 25 अन्तःपुरे विस्तृतवागुरोऽपि बालावलीनां वलितैर्गुणौधैः / न कालसारं हरिणं तदक्षिद्वयं प्रभुर्बद्धमभून्मनोभूः / / 19 / /