________________ (5) नैषधीयचरितम् :: षष्ठः सर्गः ] [ 661 चतुष्पथे तं. विनिमोलिताक्षं चतुर्दिगेताः सुखमग्रहीष्यन् / / संघट्टय तस्मिन्भृशभीनिवृत्ता स्ता एव तद्वर्त्म न चेददास्यन् // 27 / / संघट्टयन्त्यास्तरसात्मभूषा ___ हीराकुरप्रोतदुकूलहारी / दिशा नितम्बं परिधाप्य तन्व्या स्तत्पापसंतापमवाप भूपः // 28 // हतः कयाचित्पथि कन्दुकेन संघट्टय भिन्नः करजैः कयापि। कयाचनाक्तः कुचकुङ्कुमेन संभुक्तकल्पः स बभूव ताभिः // 26 / / छायामयः प्रैक्षि कयापि हारे . निजे स गच्छन्नथ नेक्ष्यमाणः / तञ्चिन्तयान्तनिरचायि चारु ___ स्वस्यैवं तन्व्या हृदयं प्रविष्टः // 30 // तच्छायसौन्दर्यनिपीतधैर्याः ____ प्रत्येकमालिङ्गदमू रतीशः / रतिप्रतिद्वन्द्वितमासु नूनं ____नामूषु निर्णोतरतिः कथंचित् // 31 // तस्माददृश्यादपि नातिबिभ्यू स्तच्छायरूपाहितमोहलोलाः / . मन्यन्त एवाहतमन्मथाज्ञाः प्राणानपि स्वान्सुदृशस्तृणानि // 32 // 'जाति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्विससर्प कम्पः /