________________ (5) नैषधीयचरितम् :: पञ्चमः सर्गः ] [ 683 भावगुप्तिमवलम्बितुमीशे - दुर्जया हि विषया विदुषानि // 106 / / यामिकाननुपमृद्य च माइक् तां निरीक्षितुमपि क्षमते कः / / रक्षिलक्षजयचण्डचरित्रे ___ पुंसि विश्वसिति कुत्र कुमारी // 110 / / आदधीचि किल दातृकृतार्घ ___प्राणमात्रपणसीम यशो यत् / प्राददे कथमहं प्रियया तत् . 10 प्राणतः शतगुणेन पणेन // 111 / / अर्थना मयि भवद्भिरिवास्यै कर्तुमर्हति मयापि भवत्सु / भीमजार्थपरयाचनचाटी यूयमेव गुरवः करणीयाः // 112 / / अथिताः प्रथमतो दमयन्ती यूयमन्वहमुपास्य मया यत् / ह्रीन चेद्वयतियत्तामपि तद्वः / सा ममापि सुतरां न तदस्तु // 113 / / कुण्डिनेन्द्रसुतया किल पूर्व ___ मां वरीतुमुररीकृतमास्ते / वोडमेष्यति परं मयि दृष्टे स्वीकरिष्यति न सा खलु युष्मान् // 114 / / तत्प्रसीदत विधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् / हास्यतैव सुलभा न तु साध्यं तद्विधित्सुभिरनौपयिकेन // 115 // __ईदृशानि गदितानि तदानी माकलय्य स नलस्य बलारिः /