________________ 684 ] [ काव्यषट्कं शंसति स्म किमपि स्मयमानः ___ स्वानुगाननविलोकनलोल: / / 116 / / नाभ्यधायि नृपते ! भवतेदं रोहिणीरमणवंशभुवैव। लज्जते न रसना तव वाम्या दर्थिषु स्वयमुरीकृतकाम्या // 117 / / भङगुरं न वितथं न कथं वा जीवलोकमवलोकयसीमम् / येन धर्मयशसी परिहातुं धीरहो चलति धीर ! तवापि // 11 / / कः कुलेऽजनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन / इन्दुरादिरजनिष्ट कलङ्की' कष्टमत्र स भवानपि मा भूत् / / 116 / / यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टि: / त्वादशस्य सकलः स कलङ्कः ___शीतभासि शशक: परमङ्कः // 120 / / नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि / 20 इत्थमथिचयसंशयदोलाखेलनं खलु चकार नकारः / / 121 / / अब्रवीत्तमनलः क्व नलेदं लब्धमुज्झसि यशः शशिकल्पम् / कल्पवृक्षपतिमर्थिनमित्थं नाप कोऽपि शतमन्युमिहान्यः / / 122 / / 25 न व्यहन्यत कदापि मुदं यः स्वःसदामुपनयन्नभिलाषः /