________________ [ काव्यषटकं त्वामिहैवमनिवेश्य रहस्ये निर्वृति नहि लमेमहि सर्वे // 101 / / शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः / क्षिपरेनमृजुमाशु सपक्षं सायकं धनुरिवाजनि वक्र: / / 102 / / 5 तेन तेन वचसैव मघोनः स स्म वेद कपटं पटुरुच्चैः / आचरत्तदुचितामथ वाणी मार्जवं हि कुटिलेष न नीतिः / / 103 / / सेयमुच्चतरता दुरिताना- . मन्यजन्मनि मयैव कृतानाम् / युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् // 104 / / वित्थ चित्तमखिलस्य न कुर्या धुर्यकार्यपरिपन्थि तु मौनम् / ह्रीगिरास्तु वरमस्तु पुनर्मा स्वीकृतैव परवागपरास्ता / / 10 / / यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् / तेऽपि किं वितरथेशमाज्ञां या न यस्य सदृशी वितरीतुम् // 106 / / यामि यामिह वरीतुमहो तद् दूततां नु करवाणि कथं वः / ईदृशां न महतां बत जाता ___ वञ्चने मम तृणस्य घृणापि // 107 / / उद्धृमामि विरहान्मुहुरस्या मोहमेमि च मुहूर्तमहं यः / ब्रूत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीहगवस्थः / / 108 / / 25 यां मनोरथमयीं हृदि कृत्वा .. यः श्वसिम्यथ कथं स तदने।