________________ 670 ] [ काव्यषटकं प्रियसखीनिवहः स तथा क्रमा- . ___ दियमवाप यथा लघु चेतनाम् // 112 / / अथ कले! कलय श्वसिति स्फुटं चलति पक्ष्म चले ! परिभावय / अधरकम्पनमुन्नय मेनके ! किमपि जल्पति कल्पलते ! शृणु / / 113 / / रचय चारुमति ! स्तनयोवृति कलय केशिनि ! कैश्यमसंयतम् / अवगहाण तरङ्गिणि ! नेत्रयो जलझराविति शुश्रविरे गिरः // 114 / / कलकलः स तदा लिजनानना दुदलसद्विपुलस्त्वरितेरितैः / यमधिगम्य सुतालयमीयिवान् धृतदरः स विदर्भपुरंदरः // 115 / / 15 कन्यान्तःपुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावचतुः / देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः / 116 / ताभ्यामभूयुगपदप्यभिधीयमानं भेदव्यपाकृति मिथः प्रतिघातमेव / श्रोत्रे तु तस्य पपतुर्नपतेर्न किंचिद्भैम्यामनिष्टशतशङ्कितयाकुलस्य ||117 // द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणम्राम् / 25 अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः / / 118 / /