________________ (5) नैषधीयचरितम् :: चतुर्थः सर्गः ] [ 666 अयि ! शपे हृदयाय तवैव तद्यदि विधोर्न रुचेरसि गोचरः / रुचिफलं सखि ! दृश्यत एव तज्ज्वलयति त्वचमूल्ललयत्यसून् / / 106 / / विधुविरोधितिथेरभिधायिनी ननु न किं पुनरिच्छसि कोकिलाम् / सखि ! किमर्थगवेषणया गिरं किरति सेयमनर्थमयीं मयि // 107 / / हृदय एव तवास्ति स वल्लभ.. स्तदपि किं दमयन्ति ! विषीदसि / हृदि परं न बहिः खलु वर्तते सखि ! यतस्तत एव विषद्यते / / 108 / / स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलंकृतमद्य ते। सखि ! हतास्मि तदा यदि हृद्यपि . प्रियतमः स मम व्यवधापितः // 109 / / इदमुदीर्य-तदैव मुमूर्च्छ सा मनसि मूच्छितमन्मथपावका / क्व सहतामवलम्बलवच्छिदा- मनुपपत्तिमतीमतिदुःखिता // 110 / / अधित कापि मुखे सलिलं सखी ___प्यधित कापि सरोजदलैः स्तनौ / व्यधित कापि हृदि व्यजनानिलं . न्यधित कापि हिमं सुतनोस्तनौ / / 111 / / उपचचार चिरं मृदुशीतलै जलजनालमृणालजलादिभिः / 25.