________________ (5) नैषधीयचरितम् :: चतुर्थः सर्गः ] [ 671 व्यंतरदथ पिताशिषं सुतायै नतशिरसे सहसोन्नमय्य मौलिम् / दयितमभिमतं स्वयंवरे ! त्वं गुणमयमाप्नुहि वासरैः किद्भिः / / 116 / / तदनु स तनुजासखीरवादी त्तहिन ऋतौ गत एव हीदृशीनाम् / कुसुममपि शरायते शरीरे तदुचितमाचरतोपचारमस्याः // 120 // कतिपयदिवसैर्वयस्यया वः स्वयमभिलष्य वरिष्यते वरीयान् / ऋशिमशमनयानया तदाप्तुं * रुचिरुचिताथ भवद्विधाविधाभिः / / 12 / / एवं यद्वदता नृपेण तनया नापृच्छि लज्जास्पदं यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः / 15 यच्चाशी:कपटादवादि सदृशी स्यात्तत्र या सान्त्वना तन्मत्वालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः / / 122 / / श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं / श्रीहीरः सुषवे जितेन्द्रियचयं मामल्लदेवी च यम् / तुर्यः स्थैर्य विचारणप्रकरणभ्रातर्ययं तन्महा२०. काव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः / / 123 / / / / कविहर्ष विरचिते नैषधीयप्रकाशे . चतुर्थः सर्गः समाप्तः / / 4 / /