________________ 662 ] [ काव्यषट्कं उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः / विषवदुज्झितमप्यमुना न स ___ स्मरहरः किममुं बुभुजे विभुः / / 60 / / असितमेकसुराशितमप्यभून्न ____ पुनरेष विधुर्विशदं विषम् / अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् // 61 / / विरहिवर्गवधव्यसनाकुलं कलय पापमशेषकुलं विधुम् / सुरनिपीतसुधाकमपापकं ग्रहविदो विपरीतकथा: कथम् / / 62 / / विरहिभिर्बहुमानमवापि यः / ... स बहुलः खलु पक्ष इहाजनि / तदमिति: सकलैरपि यत्रत ___ळरचि सा च तिथिः किममाकृता / / 63 / / स्वरिपुतीक्ष्णसुदर्शनविभ्रमा किमु विधुं ग्रसते स विधुतुदः। . निपतितं वदने कथमन्यथा बलिकरम्भनिभं निजमुज्झति // 64 / / वदनगर्भगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम् / अशित एव गलत्ययमत्ययं सखि ! विना गलनालबिलाध्वना / / 65 / / ऋजुदृशः कथयन्ति पुराविदो " मधुभिदं किल राहुशिरश्छिदम् / /