________________ (5) नैषधीयचरितम् :: चतुर्थ सर्गः ] -विरहिमूर्धभिदं निगदन्ति न ___ क्व नु शशी यदि तज्जठरानलः / / 66 / / स्मरसखौ रुचिभिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः / सपदि संदधतुभिषजो दिवः सखि ! तथा तमसोऽपि करोतु क: / / 67 / / नलविमस्तकितस्य रणे रिपोर्मिलति किं न कबन्धगलेन वा। मृतिभिया भृशमुत्पततस्तमोग्रहशिरस्तदसृग्दृढबन्धनम् / / 68 / / . सखि ! जरां परिपृच्छ तमःशिरः सममसो दघतापि कबन्धताम् / मगघराजवपुर्दलयुग्मव त्किमिति न व्यतिसीव्यति केतुना / / 66 / / वद विधुतुदमालि ! मदीरित____ स्त्यजसि किं द्विजराजधिया रिपुम् / किमु दिवं पुनरेति यदीदृशः __ पतित एष निषेव्य हि वारुणीम् / / 70 / / दहप्ति कण्ठमयं खलु तेन किं __ गरुडवविजवासनयोज्झितः / प्रकृतिरस्य विधुतुद ! दाहिका मयि निरागसि का वद विप्रता / / 71 / / सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः / विरहिणीगणचर्वणसाधन विधुरतो द्विजराज इति श्रुतिः / / 72 / / '25 स्मरमुखं हरनेत्रहुताशना ज्ज्वलदिदं चकृषे विधिना विधुः /