________________ रघुवंशे सप्तमः सर्गः ] [ 45 // 7 // अथ सप्तमः सर्गः॥ अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् / स्वसारमादाय विदर्भनाथ: पुरप्रवेशाभिमुखो बभूव / / 1 / / सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुविभातग्रहमन्दभासः / 5 भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः // 2 // सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः / काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः 3 तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् / वरः स वध्वा सह राजमार्ग प्राप ध्वजच्छायनिवारितोष्णम् 4 ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु / बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्य कार्याणि विचेष्टितानि / / आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः / बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः।६। प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्रवरागमेव / 15 उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवी ततान / / 7 / / विलोचनं दक्षिणमज़नेन संभाव्य तञ्चितवामनेत्रा / तथैव वातायनसंनिकर्ष ययौ शलाकामपरा वहन्ती / / 8 / / जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् / नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्व्य वासः / / 6 / / 20 अर्धाञ्जिता सत्वरमुत्थितायाः पदे पदे दुनिमिते गलन्ती / कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा / 10 / तासां मुखैरासवगन्धगर्भाप्तान्तराः सान्द्रकुतूहलानाम् / विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् / / 11 / / ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुविषयान्तराणि / 25 तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा / 12 /