________________ 44 ] [ काव्यषट्के (1) रघुवंशम् असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पति जयन्तः / गुर्वी धुर यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं विति / 78 // कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैविनयप्रधानैः / त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन।७६। 5 ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्र कन्या / दृष्टया प्रसादामलया कुमार प्रत्यग्रहीत्संवरणस्रजेव // 80 / / सा यूनि तस्मिन्नभिलाषबन्धं, शशाक शालीनतया न वक्तुम् / रोमाञ्चलक्ष्येण स गात्रयष्टि, भित्त्वा निराक्रामदरालकेश्याः // 81 / / तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे / आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श / / 82 / / सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः / आसञ्जयामासं यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् / 83 / 15 तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः / अमस्त कण्ठापितबाहुपाशां विदर्भराजावरजां वरेण्यः / / 4 / / शशिनमुपगतेयं कौमुदी मेघमुक्तं, . जलनिधिमनुरूप जह्न कन्यावतीर्णा / इति समगुणयोगप्रीतयस्तत्र पौरा:, 20 श्रवणकटु नृपाणामेकवाक्यं विववः / / 85 / / (मालिनी) प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् / उषसि सर इव प्रफुल्लपद्मकुमुदवनप्रतिपन्ननिद्रमासीत् / 86 / (पुष्पिताग्रा) // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये 25 स्वयंवरवर्णनो नाम षष्ठः सर्गः // 6 //