________________ (5) नैषधीयचरितम् :: प्रथम सर्गः ] [ 625 वनेऽपि तौर्यत्रिकमारराध तं ____ क्व भोगमाप्नोति न भाग्यभाग्जनः / / 102 / / तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् / स्वरामृतेनोपजगुश्च सारिका स्तथैव तत्पौरुषगायनीकृताः / / 103 / / इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च / अविन्दतामोदभरं बहिश्वरं विदर्भसुभ्रूविरहेण नान्तरम् / 104 / करेण मीनं निजकेतनं दघद्रुमालवालाम्बुनिवेशशङ्कया। 10 व्यतर्कि सर्वर्तुघने वने मधु स मित्रमत्रानुसरन्निव स्मरः / 105 / लताबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः / प्रसेवतामुं मधुगन्धवारिणि प्रतोतलीलाप्लवनो वनानिलः 106 अथ स्वमादाय भयेन मन्थना चिरत्नरत्नाधिकमुच्चितं चिरात् / निलीय तस्मिन्निव सन्नपांनिधि बने तडाको ददृशेऽवनीभुजा // 107 / / पयोनिलीनाभ्रमुकामुकावली. रदाननन्तोरगपुच्छसुच्छवीन् / जलार्घरुद्धस्य तटान्तभूभिदो मृणालजालस्य मिषाद्वभार यः // 108 / / तटान्तविश्रान्ततुरंगमच्छटा ___ स्फुटानुबिम्बोदयचुम्बनेन यः।। बभौ चलद्वीचिकशान्तशातनैः . सहस्रमुच्चैःश्रवसामिवाश्रयन् // 106 / / 25. सिताम्बुजानां निवहस्य यश्छला .. द्वभावलिश्यामलितोदरश्रियाम् /