________________ 626 ] [ काव्यषट्कं तमःसमच्छायकलङ्कसंकुलं कुलं सुधांशोर्बहलं वहन्बहु / / 110 / / रथाङ्गभाजा कमलानुषङ्गिणा . शिलीमुखस्तोमसखेन शाङ्गिणा। सरोजिनीस्तम्बकदम्बकैतवा मृणालशेषाहिभुवान्वयायि यः / / 111 / / तरङ्गिणोरङ्कजुषः स्ववल्लभास्तरङ्गरेखा विभरांबभूव यः / दरोद्गतः कोकनदौघकोरकैधुतप्रवालाकुरसंचयश्च यः / 112 / महीयसः पङ्कजमण्डलस्य 'यश्छलेन गौरस्य च मेचकस्य च / नलेन मेने सलिले निलीनयो स्त्विषं विमुञ्चन्विधुकालकूटयोः / / 113 / / चलीकृता यत्र तरङ्गरिङ्गणैरबाल शैवाललतापरम्पराः / ध्रुवं दधुर्वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् / 114 / 15 प्रकाममादित्यमवाप्य कण्टकैः ___ करम्बितामोदभर विवृण्वती। धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता / / 115 / / यदम्बुपूरप्रतिबिम्बितायति __ मरुत्तरगैस्तरलस्तटद्रुमः / निमज्ज्य मैनाकमहीभृतः सत स्ततान पक्षान्धुवतः सपक्षताम् // 116 / / पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् / 25 स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः // 117 / /