________________ (5) नैषधीयचरितम् :: प्रथम सर्गः ] [ 617 त्यजन्त्यसूशर्म च मानिनोवरं त्यजन्ति न त्वेकमयाचितव्रतम् / / 50 / / मृषाविषादाभिनयादयं क्वचिज्जुगोप ___ निःश्वासतति वियोगजाम् / विलेपनस्याधिकचन्द्रभागता विभावनाच्चापललाप पाण्डताम् / / 51 / / शशाक निह्नोतुमयेन तत्प्रिया मयं बभाषे यदलीकवीक्षिताम् / समाज एवालपितासु वैणिक ___ मुमूर्च्छ यत्पञ्चममूर्च्छनासु च / / 52 / / अवाप सापत्रपतां स भूपति जितेन्द्रियाणां धुरि कीर्तितस्थितिः / असंवरे शंवरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि // 53 / / अलं नलं रोद्धममी किलाभव न्गुणा विवेकप्रमुखा न चापलम् / स्मरः सरत्यामनिरुद्धमेव ___ यत्सृजत्ययं . सर्वेनिसर्ग ईदृशः / / 54 / / अनङ्गचिह नं स विना शशाक .. नो यदासितुं संसदि यत्नवानपि / क्षणं तदारामविहारकैतवा निषेवितुं देशमियेष निर्जनम् / / 55 / / अथ श्रिया भत्सितमत्स्यलाञ्छनः __ समं वयस्यैः स्वरहस्यवेदिभिः / पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः / / 56 / / 25