SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 618 ] [ काव्यषट्कं अभी ततस्तस्य विभूषितं सितं ___जवेऽपि मानेऽपि च पौरुषाधिकम् / उपाहरन्नश्वमजस्रचञ्चलः खुराञ्चलैः क्षोदितमन्दुरोदरम् / / 57 / / प्रथान्तरेणावटुगामिनाध्वना निशीथिनीनाथमहःसहोदरैः / निगालगादेवमणेरिवोत्थित विराजितं केसरकेशरश्मिभिः / / 58 / / अजस्रभूमीतटकुट्टनोत्थित रुपास्यमानं चरणषु रेणुभिः / रयप्रकर्षाध्ययनार्थमागते र्जनस्य चेतोभिरिवाणिमाकितैः / / 56 / / चलाचलप्रोथतया महीभृते ___ स्ववेगदानिव वक्तुमुत्सुकम् / अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् / / 60 / / महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशःसितम्। रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः / 61 / / सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य / स्फुटं चलचामरयुग्मचिह्नन रनिहुवानं निजवाजिराजताम् // 62 / / अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया।
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy