________________ .. [ काव्यषट्कं अकारि तेन श्रवणातिथिर्गुणः / क्षमाभुजा भीमनृपात्मजालयः / तदुच्चधैर्यव्ययसहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः / / 44 / / अमुष्य धीरस्य जयाय साहसी .. तदा खलु ज्यां विशिखैः सनाथयन् / : निमज्जयामास यशांसि संशये स्मरस्त्रिलोकी विजयाजितान्यपि // 45 / / . अनेन भैमी घटयिष्यतस्तथा ___ विधेरवन्ध्येच्छतया व्यलासि तत् / अभेदि तत्तागनङ्गमार्गणे र्यदस्य पौष्पैरपि धैयकञ्चुकम् // 46 / / किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो / स्मरं तनुच्छायतया तमात्मनः शशाक शङ्क स न लवितु नलः / / 47 / / उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् / त्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् / / 48 // अपह नुवानस्य जनाय यन्निजा भधीरतामस्य कृतं मनोभुवा। . अवोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला / / 49 / / स्मरोऽपतप्तोपि भृशं न स प्रभुविदर्भ राजं तनयामयाचत / 25