________________ 606 ] [ काव्यषट्कं ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः / . क्षणमात्रभवामभावकाले सुतरामापुरिवायति पताकाः / 64 / निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् / प्रतिघातसमर्थमस्त्रमग्नेरथमेघंकरमस्मरन्मुरारिः // 65 / / 5 . चतुरम्बुधिगर्भधीरकुक्षे- / वपुषःसन्धिष लीनसर्वसिन्धोः / उदगुः सलिलात्मनस्त्रिधाम्नो ___ जलवाहावलयः शिरोरुहेभ्यः / / 66 / / ककुभः कृतनादमास्तृण ____न्तस्तिरयन्तः पटलानि भानुभासाम् / उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः / / 67 / / तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् / अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव / / 68 / / सवितुः परिभावुकैर्मरीची नचिराभ्यक्तमतङ्गजाङ्गभाभिः / जलदैरभितः स्फुरद्भिरुच्चै विदधे केतनतेव धूमकेतोः / / 66 / / ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः / ववषर्वषनादिनो नदीनां - प्रतटारोपितवारि वारिवाहाः // 70 / / मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिदिदीपे / पवमानसखस्तत: क्रमेण प्रणयक्रोध इवाशमद्विवादैः / / 71 // 25 परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः / प्रबलेषु कृती चकार विशुद्वयपदेशेन घनेष्वनुप्रवेशम् / / 72 / /