________________ (4) शिशुपालवधम् :: विंशः सर्गः ] [ 605 क्षणमैक्षिषतोच्चकैश्चभूमि - ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः / / 53 / / उपमानमलाभिलोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः / गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् / 54 / 5 पततां परितः परिस्फुरद्भिः / परिपिङ्गीकृतदिङ्मुखैमयूखैः / सुतरामभवदुरोक्ष्यबिम्ब स्तपनस्तत्किरणैरिवात्मदर्शः / / 55 / / दधुरम्बुधिमन्थनाद्रिमन्थ भ्रमणायस्तफणीन्द्रपित्तजानाम् / 10 रुचमुल्लसमानवैनतेयातिभिन्नाः फणभारिणो मणीनाम् // 56 // अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौधः / / जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा // 57 / / प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गः / भयविह्वलमाशु दन्दशूकैविवशैराविविशे स्वमेव धाम / / 8 / / 15 खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते / अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् / 56 / सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन / विततायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः / / 60 / / चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः / 20 द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल // 61 / / ज्वलदम्बरकोटरान्तरालं __बहुलार्द्राम्बुदपत्रबद्धधूमम् / परिदीपितदीर्घकाष्ठमुच्चै - स्तरुवद्विश्वमुबोष जातवेदाः / / 62 / / 25. गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः / स्वमसारतया मषाभवन्तः पुनराकारमवापुरम्बुवाहाः / / 63 / /