SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 604 ] [ काव्यपटकं 10 व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे।' रिपुरुल्बणभीमभोगभाजां भुजगानां जननी जजाप विद्याम् 41 पृथुदविभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः / अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः / / 42 / / कृतकेशविडम्बनैविहायो विजयं तत्क्षणमिच्छुभिश्छलेन / अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः / / 43 / / दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः / भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चा: / 44 / सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् / उपरागवतेव तिग्मभासा वपुरोदुम्बरमण्डलाभमूहे / / 45 / / शिखिपिच्छकृतध्वजाव चूडक्षणसाशङ्कविवर्तमानभोगाः / यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषुलेलिहानाः / / 46 / / पृथवारिधिवीचिमण्डलान्त विलसत्फेनवितानपाण्डुराणि / दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिध्वजांशुकानि / 47 / 15 कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः / व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव / / 48 / / परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः / दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् / 46 / बहुलाञ्जनपङ्कपट्टनीलद्यतयो देहमितस्ततः श्रयन्तः / दधिरे फणिनस्तुरङ्गमेषु स्फुट पल्याणनिबद्धवर्धलीलाम् / 50 / प्रसृतं रभसादयोभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती। तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार / / 5 / / अथ सस्मितवीक्षितादवज्ञाचलितकोन्नमितभ्रु माधवेन। . निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् / 52 / 25 द्रुतहेमरुच: खगाः खगेन्द्रा दलघुदीरितनादमुत्पतन्तः। 20
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy